श्री विद्या गणपती स्तोत्र | Vidya Ganapathi Stotram Sanskrit PDF Summary
Dear readers, here we are presenting Vidya Ganapathi Stotram PDF to all of you. Vidya Ganapathi Stotram is a very beautifully created Sanskrit Vedic hymn that is dedicated to the Shri Vidya Ganapati form of the Lord Ganesha. The devotees of Lord Ganesha call him by various pious names, Vidya Ganapathi is one of them.
It is said that the one who is struggling to pursue his or her studies fluently and facing many types of bottlenecks on the education front then you should definitely recite the Vidya Ganapathi Stotram every day but if it is not possible for you to recite it daily then you can recite it on every Wednesday.
Vidya Ganapathi Stotram Lyrics in Sanskrit PDF
श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ।
वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ १॥
सर्वपापप्रशमनं सर्वविघ्ननिवारकम् ।
सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ २॥
ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः ।
विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥ ३॥
स्तोत्रेणानेन सम्पूज्य जप्त्वा रवेः पदे स्थिताः ।
सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ ४॥
तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् ।
यः पठेत् प्रातरुत्थाय चिन्तयेन्मूनि बालकम् ॥ ५॥
स सर्वदुरितान्मु(क्त्वा)क्तो सर्वान् कामानवाप्नुयात् ।
चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥ ६॥
शोभनेषु समस्तेषु कार्येध्वन्येषु बुद्धिमान् ।
स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ ७॥
धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् ।
सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ ८॥
सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् ।
(अथ स्तोत्रम् ।)
ॐ विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥ ९॥
विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ।
विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ १०॥
विश्वानुग्राहकः सत्यः शिवतुल्यः शिवात्मजः ।
विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ ११॥
विमर्शी विमलाचारो विश्वाकारो विनायकः ।
स्वतन्त्रः सुलभः स्वर्चः सुमुखः सुखबोधकः ॥ १२॥
सूर्याग्निशशिदृक् सोमकलाचूडः सुखासनः ।
स्वप्रकाशः सुधावक्त्रः स्वयं व्यक्तः स्मृतिप्रियः ॥ १३॥
शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः ।
शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ १४॥
कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः ।
उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ १५॥
चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुभृत् ।
सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥ १६॥
साम्बप्रमोदको वज्री मानसो मोदकप्रियः ।
एकदन्तो बृहत्कुक्षिः दीर्घतुण्डो विकर्णकः ॥ १७॥
ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः ।
तेजस्वी तीक्ष्णधिषणः शक्तिवृन्दनिषेवितः ॥ १८॥
परापराश्च पश्यन्ती प्राणनाथः प्रमत्तहृत् ।
सङ् क्लिष्टमध्यमःस्पष्टो वैखरीजनकः शुचिः ॥ १९॥
धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः ।
तपस्वी तरुणोल्लासी योगिनीभोगतत्परः ॥ २०॥
जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः ।
जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥ २१॥
नमस्कारप्रियो नानामतभेदविभेदकः ।
नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥ २२॥
विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः ।
सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥ २३॥
सर्वातीतः समरसः सत्यावासः सतां गतिः ।
इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥ २४॥
यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः ।
तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा ।
नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मनः ॥ २५॥
॥ इति महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते
श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
You can download Vidya Ganapathi Stotram PDF by clicking on the following download button.