Vanara Gita PDF Sanskrit

Vanara Gita Sanskrit PDF Download

Free download PDF of Vanara Gita Sanskrit using the direct link provided at the bottom of the PDF description.

DMCA / REPORT COPYRIGHT

Vanara Gita Sanskrit - Description

Dear readers, here we are providing Vanara Gita PDF to all of you. Vanara Gita is one of the vital holy scriptures in Hinduism. Vanara Gita is considered very important by the devotees of Lord Shri Hanuman Ji. If you read this with proper meaning then you will have energy within you.
Vanara Gita can easily be read because it is written very nicely and have a significant meaning for those who want to seek the blessing of Lord Hanuman and get a solution to all kind of problems that are disturbing you for a long time. You can get its complete version below.
इस मधुर व दिव्य आरती के गायन से सभी मनोरथ पूर्ण होते हैं तथा हनुमत वंदना का सम्पूर्ण लाभ मिलता है। आरती करते समय कुछ विशेष बातों का ध्यान रखना आवश्यक है, जैसे आरती करते समय हनुमान जी के एकदम सामने खड़े न होएं बल्कि उनकी दायीं ओर खड़े होकर आरती करें। इसके अलावा हमें बजरंग बाण और हनुमान चालीसा का पाठ भी बहुत लाभ देता है। हनुमान चालीसा का पाठ करने के बाद हनुमान चालीसा आरती भी अवश्य करनी चाहिए। उत्तर भारत की तो अधिकांश उत्तर भरतीय क्षेत्रों में हनुमान जयंती का पर्व चैत्र पूर्णिमा के दिन मनाया जाता है। श्री हनुमान तांडव स्तोत्र का पाठ करते समय पूर्ण पवित्रता का ध्यान रखना चाहिए तभी हमें बजरंगबली की विशेष कृपा मिलती है। जो भी व्यक्ति श्री हनुमान रक्षा स्तोत्र का पाठ करता है उस पर श्री हनुमान जी की कृपा के साथ-साथ भगवान् श्री राम जी की कृपा भी बनी रहती है।भक्तजन  हनुमान जी के 108 नाम पढ़ कर उन्हें आसानी से प्रसन्न कर सकते हैं तथा उनकी दया-दृष्टि पाकर अपने जीवन को उत्तम बन सकते हैं। हनुमान साठिका तुलसीदास जी की ही एक अत्यधिक महत्वपूर्ण रचना है।  इसका पाठ करने से हनुमान जी बहुत ही जल्दी कृपा करते हैं।

वानर गीता PDF/ Vanara Gita Hindi PDF

श्रीवानरगीता श्रीपराशरसंहितायां

श्रीपराशर उवाच

श‍ृणु मैत्रेय विप्रर्षे स्तोत्रं श्रीहनुमत्परम् ।

कृतं सर्ववानरैश्च श्रीवानरगीताभिदम् ॥

स्तोत्रं सर्वोत्तमं चैव हनुमत्तत्त्वदर्शनम् ।

सर्वमायहरं चैव आधिव्याधिविनाशनम् ॥

अगस्त्येन पुरा प्रोक्तं सर्वेषां मुनिसन्निधौ ।

इन्द्रेण याचितं चैतत् लोकोपकरणेच्छया ॥

इन्द्रोऽथ परिपप्रच्छ सत्कृतं मुनिपुङ्गवम् ।

अगस्त्यं च महात्मानं आसीनं च सुखासने ॥

देवदेव भवांभोधेः दुस्तरात्कलुषेन्द्रियाः ।

जनाः कथं तरन्तीह तन्मे वद कृपानिधे ॥

श्री अगस्त्य उवाच

हनूमन्तं कृतस्तोत्रं वानरैर्विमलात्मभिः ।

पठन्ति ये सदा मर्त्याः तच्चित्तविमलात्मकाः ॥

तरन्ति भवपादोधिं प्राप्नुवन्ति हरेः पदम् ।

आयुः कीर्तिर्यशश्चैव लभन्ते नात्र संशयः ॥

ॐ अस्य श्रीवानरगीतास्तोत्रमन्त्रस्य – अगस्त्य ऋषिः

जगती छन्दः – श्रीहनुमान् देवता – मारुतात्मज इति बीजम् –

अञ्जनासूनुरिति शक्तिः – वायुपुत्र इति कीलकम् –

श्रीहनुमत्प्रसादसिध्यर्थे विनियोगः ॥

ध्यानम् ।

वामे जानुनि वामजानुमपरं ज्ञानाख्यमुद्रान्वितं

हृद्देशे कलयन्नुतो मुनिगणैराध्यात्मदक्षेक्षणः ।

आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः

ध्यायन् ब्रह्म परं करोतु मनसा शुद्धिं हनूमान् मम ॥

संजीव पर्वतोद्धार मोनोदुःखं निवारय ।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥

श्रीसुग्रीव उवाच

सुवर्णशैलस्य गवां च कोटिशतस्य कोटेश्च शतस्य यत्फलम् ।

दानस्य नैवास्ति समं फलं च ध्रुवं च तन्मारुतिदर्शनेन ॥ १॥

श्रीगन्धमादनः

हनुमन्निति मे स्नानं हनुमन्निति मे जपः ।

हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा ॥ २॥

श्रीसुषेण उवाच

रामभक्तचरिताकथामृतं वायुतनयगुणानुकीर्तनम् ।

रामदास तव पादसेवनं संभवन्तु मम जन्मजन्मनि ॥ ३॥

श्री अङ्गद उवाच

माता सुवर्चलादेवी पिता मे वायुनन्दनः ।

बान्धवा हनुमद्भक्ताः स्वदेशं भुवनत्रयम् ॥ ४॥

श्रीनील उवाच

भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम् ।

सुवर्चलापतिं वन्दे मारुतिं वरदं सदा ॥ ५॥

श्रीगवाक्ष उवाच

वायुपुत्रेण महता यद्यदुक्तं करोमि तत् ।

न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा ॥ ६॥

श्रीमैन्द उवाच

समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः ।

करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा ॥ ७॥

श्रीद्विविद उवाच

रामादीनां रणे ख्यातिं दातुं यो रावणादिकान् ।

नावधीत्स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम् ॥ ८॥

श्रीशरभ उवाच

भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः ।

भवेत्सः शुचिरायुः श्रीः पुत्रमित्रकलत्रवान् ॥ ९॥

श्रीगवयः

आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् ।

तृणीकृतदशग्रीवं आञ्जनेयं नमाम्यहम् ॥ १०॥

श्रीप्रहस्तः

उल्लङ्ख्य सिन्धोः सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ११॥

श्रीनल उवाच

नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा ।

वदामि वातात्मजनाम मङ्गलं स्मरामि वायूद्भवकीर्तनं शुभम् ॥ १२॥

श्रीधर्मक उवाच

सप्तषष्टिर्हतान् कोटिवानराणां तरस्विनाम् ।

यः सञ्जीवनयामास तं वन्दे मारुतात्मजम् ॥ १३॥

श्रीगज उवाच

तनौ बालपाशः पिता पार्वतीशः स्फुरद्बाहुदण्डो मुखे वज्रदंष्ट्रः ।

सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने ॥ १४॥

श्रीऋक्षरजस उवाच

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।

अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्    ॥ १५॥

श्रीसम्पाति उवाच

नाशकं सीताशोकस्य श्रीरामानन्ददायिनम् ।

सुखप्रदं साधकानां वायुपुत्रं नमाम्यहम् ॥ १६॥

श्रीवेगवान् उवाच

अञ्जनावरपुत्राय रामेष्टाय हनूमते ।

सर्वलोकैकवीराय ब्रह्मरूपाय ते नमः ॥ १७॥

श्रीरुद्रग्रीव उवाच

हनूमत्सदृशं दैवं नास्ति नास्तीति भूतले ।

तं पूजयन्ति सततं ब्रह्मा-गौरी-महेश्वराः ॥ १८॥

श्रीदधिमुखः

आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः ।

इदमेकं सुनिर्णीतं न दैवं हनुमत्परम् ॥ १९॥

श्रीसुदंष्ट्र उवाच

मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव ।

मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय ॥ २०॥

श्रीऋषभ उवाच

करुणारसपूर्णाय जगदानन्दहेतवे ।

कुक्षिस्थाखिललोकाय हनूमद्ब्रह्मणे नमः ॥ २१॥

श्रीपृथु उवाच

दाता दापयिता चैव संहर्ता रक्षकस्तथा ।

प्रेरकश्चानुमोदा च कर्ता भोक्ता कपीश्वरः ॥ २२॥

श्रीजाम्बवान् उवाच

भुक्तिमुक्तिप्रदं नाम विहाय हनुमन् तव ।

संसरन्ति जना मूढाः किं विचित्रमतःपरम् ॥ २३॥

श्रीज्योतिर्मुख उवाच

मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन् महात्मन्

त्वद्दासदासजनपादरजोनिकेतमस्मद्धितो भवतु सेवकपारिजात ॥ २४॥

श्रीसुमुख उवाच

रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि ।

हनुमन्नामपीयूषं सर्वदा रसने पिब ॥ २५॥

श्रीगोलाङ्गूल उवाच

कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा ।

कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य ॥ २६॥

श्रीकुमुद उवाच

त्रातारो भुवि पादाश्च मार्गाश्च रसने तव ।?

हनूमन्निर्मितास्सन्ति जनानां हीनता कुतः ॥ २७॥

श्रीशतबलि उवाच

धन्योस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महितोऽस्म्यहम् ।

हनुमन् त्वत्पदाम्भोजसेवाविभवयोगतः ॥ २८॥

श्रीकेसरि उवाच

त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः ।

अतो मयि कृपादृष्ट्या हनुमन् रक्ष मां सदा ॥ २९॥

श्रीमारीच उवाच

सदा पापौघनिष्ठूतं पापेषु हृष्टमानसम् ।

पापात्मानं महापापं रक्ष मां हनुमत्प्रभो ॥ ३०॥

श्रीतरुण उवाच

हनूमदाज्ञया यच्च भावि तद्भवति ध्रुवम् ।

यदभावि न तद्भावि वृथा देहपरिश्रमः ॥ ३१॥

श्रीगोमुख उवाच

अपराधशतं नित्यं कुर्वाणं मां नृशंसकम् ।

क्षमस्व दासबुध्या त्वं हनुमन् करुणानिधे ॥ ३२॥

श्रीपनस उवाच

हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः ।

इति वदामि जनान् परमार्थतो न हि परं भवतोऽत्र विचक्षणः ॥ ३३॥

श्रीसुषेण उवाच

माता हनूमांश्च पिता हनूमान् भ्राता हनूमान् भगिनी हनूमान् ।

विद्या हनूमान् द्रविणं हनूमान् स्वामी हनूमान् सकलं हनूमान् ॥ ३४॥

श्रीहरिलोम उवाच

इतो हनूमान् परतो हनूमान् यतो यतो यामि ततो हनूमान् ।

हनूमतोऽन्यं ननु नास्ति किञ्चित्  ततो हनूमान् तमहं प्रपद्ये ॥ ३५॥

श्रीरङ्ग उवाच

यद्वर्णपदमात्राभिः सहसोच्चारणो भवेत् ।

क्षमस्व तत्कृपादृष्ट्या हनूमन् प्रणतोऽस्म्यहम् ॥ ३६॥

श्रीविधुष्ट उवाच

हनूमान् रक्षतु जले स्थले रक्षतु वायुजः ।

अटव्यां वायुपुत्रस्तु सर्वतः पातु मारुतिः ॥ ३७॥

फलश्रुतिः

इतीदं वानरप्रोक्तं सर्वपापहरं वरम् ।

सर्वज्ञानप्रदं चैव सर्वसौभाग्यवर्धनम् ॥

इमां वानरगीतां ये  पठन्ति श्रद्धयान्विताः ।

पुत्रान् पौत्रांश्च भोगांश्च लभन्ते क्षणमात्रतः ॥

ऐश्वर्यं शाश्वतं चैव सुस्थिराः सम्पदस्तथा ।

आयुर्दीर्घं च कीर्तिं च प्राप्नुवन्ति न संशयः ॥

इह भुक्त्वाखिलान् कामान् आञ्जनेयप्रसादतः ।

गच्छन्त्यन्ते पदं नित्यं पुनरावृत्तिवर्जितम् ॥

इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे

श्रीवानरगीता नाम षट्सप्ततितमः पटलः ॥

You may also like:

बजरंगबली चालीसा | Bajrangbali Chalisa
श्री बजरंग बाण | Shri Bajrang Baan in Hindi
Bajrang Baan in English
बजरंग बाण पाठ | Bajrang Baan in Hindi
सम्पूर्ण बजरंग बाण | Bajrang Baan in Hindi
Hanuman Chalisa Bajrang Baan Sankat Mochan

You can download Vanara Gita PDF by clicking on the following download button.

Download Vanara Gita PDF using below link

REPORT THISIf the download link of Vanara Gita PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Vanara Gita is a copyright material Report This by sending a mail at [email protected]. We will not be providing the file or link of a reported PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published. Required fields are marked *