श्री नरसिंह कवच | Narasimha Kavacham Hindi PDF Summary
Dear readers, here we are presenting the Narasimha Kavacham Sanskrit PDF to all of you. Narasimha Kavacham is one of the best Vedic hymns that is dedicated to Lord Narasimha. Lord Narasimha is a famous deity in Hinduism who is one of the incarnations of Lord Shri Hari Vishnu.
There are a particular segment of devotees who want to recite Stotram as Narasimha Kavacham Iskcon PDF, they can also recite this hymn. Narasimha Kavacham is a very mangificint hymns that helps you to gain self confidence and also get rid of all kind of enemies in the life.
नरसिंह कवच इन हिंदी पीडीएफ / Narasimha Kavacham Lyrics in Sanskrit PDF
नरसिंह कवच मंत्र का पाठ व्यक्ति की एवं उसके परिवार की सुरक्षा करता है तथा अनेक प्रकार के संकटों को टालता है। यदि आप भी इस दिव्य स्तोत्र का लाभ लेना चाहते हैं, तो इस लेख के द्वारा श्री नरसिंह कवच मंत्र pdf डाउनलोड कर सकते हैं। श्री नरसिंह भगवान् को श्री हरी विष्णु का एक उग्र अवतार है। अतः इनकी आराधना करने से नरसिंह जी व्यक्ति के शत्रुओं का जड़ सहित विनाश कर देते हैं।
॥ अथ श्री नृसिंहकवचस्तोत्रम् ॥
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १॥
सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ २॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ ३॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ ४॥ var रत्नकेयूरशोभितम्
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ ५॥
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः ।
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥ ६॥ var सविनयं
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥ ७॥ var आत्मसम्भवः
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ ८॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ ९॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥ १०॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ ११॥
करौ मे देववरदो नृसिंहः पातु सर्वतः । var पातु सर्वदा
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ १२॥ var हृददं
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥ १४॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ १६॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ १७॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ १८॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः । var ईशान्ये
संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥ १९॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २०॥ var सर्वपापात्
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ २१॥ var कामान्
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ २२॥
वृश्चिकोरगसम्भूत विषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ २३॥
भूर्जे वा तालपात्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ २४॥ var तस्य कार्याणि
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ २५॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ २६॥ var यः पठेत् शुद्धमानसः ॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ २७॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ २८॥ var वारिभ्य मन्त्र्य च ॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ २९॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ ३०॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् । var क्षोभयन्तं क्षिपन्तम् ।
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं var भ्रमन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥ ३१॥ var करनिकर
॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ॥
नरसिंह कवच के लाभ / Narasimha Kavacham Benefits in Hindi PDF
- श्री नरसिंह कवच के प्रभाव से जातक सदैव सुरक्षित रहता है।
- यह स्तोत्र व्यक्ति की दुर्घटनाओं से रक्षा करता है।
- इस कवच के पाठ से व्यक्ति के अंदर आत्मविश्वाश पैदा होता है।
- श्री नरसिंह जी को प्रसन्न करने का यह एक सरल उपाय है।
- इस स्तोत्र के फलस्वरूप जातक का व्यक्तित्व निर्भय होता है।
You can download Narasimha Kavacham PDF in Sanskrit by clicking on the following download button.