काल भैरव सहस्रनाम स्तोत्र | Kalabhairava Sahasranama Stotram Sanskrit - Description
नमस्कार पाठकों, प्रस्तुत लेख में हम आपको श्री काल भैरव सहस्रनाम स्तोत्र के सन्दर्भ में बताने जा रहे हैं। काल भैरव सहस्रनाम स्तोत्र एक अत्यंत दिव्य व प्रभशाली स्तोत्र है जो श्री काल भैरव जी को समर्पित है। इस स्तोत्र के नियमित विधिवत पाठ से श्री काल भैरव जी अति प्रसन्न होते हैं तथा समस्त प्रकार के संकटों एवं शत्रुओं से आपकी व आपके कुटुंब कि रक्षा करते हैं।
मुख्यतः आम जनमानस में यह धारणा है कि श्री काल भैरव जी कि आराधना मात्र तन्त्र विद्या की प्राप्ति एवं सफलता हेतु की जानी चाहिए किन्तु कोई भी गृहस्थ समुचित नियमों का पालन करते हुये श्री काल भैरव जी की पूजा – उपासना कर सकता है। इनकी आराधना से आपके घर के चहुंओर एक सुरक्षा कवच निर्मित हो जाता है जो आपकी अनेक प्रकार की प्रेत – बाधाओं से भी सुरक्षित रखता है।
काल भैरव स्तोत्र लिरिक्स / Kalabhairava Sahasranamam Stotram Lyrics in Sanskrit
श्री गणेशाय नमः ।
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
पप्रच्छ पार्वतीकान्तं शङ्करं लोकनायकम् ॥ १॥
पार्वत्युवाच ।
देवदेव महादेव सर्वज्ञ सुखदायक ।
आपद्दुःखदरिद्रादि पीडितानां नृणां विभो ॥ २॥
यद्वित्तं सुखसम्पत्तिधनधान्यकरं सदा ।
विशेषतो राजकुले शान्ति पुष्टि प्रदायकम् ॥ ३॥
बालग्रहादि शमनं नाना सिद्धिकरं नृणाम् ।
नोक्तपूर्वञ्चयन्नाथ ध्यानपूजा समन्वितम् ॥ ४॥
वक्तुमर्हस्य शेषेण ममानन्द करं परम् ।
ईश्वर उवाच ।
स्तवराजं महामन्त्रं भैरवस्य शृणु प्रिये ॥ ५॥
सर्वकामार्थदं देवि राज्यभोगप्रदं नृणाम् ।
स्मरणात्स्तवराजस्य भूतप्रेतपिशाचकाः ॥ ६॥
विद्रवन्त्यभितोभीताः कालरुद्रादिवप्रजाः ।
एकतः पन्नगाः सर्वे गरुडश्चैकतस्तथा ॥ ७॥
एकतो घनसङ्घाताश्चण्डवातोयथैकतः ।
एकतः पर्वताः सर्वे दम्भोलिस्त्वेकतस्तथा ॥ ८॥
एकतो दैत्यसङ्घाताह्यकतः स्यात्सुदर्शनम् ।
एकतः काष्ठ सङ्घाता एकतोग्निकणोयथा ॥ ९॥
घनान्धकारस्त्वेकत्र तपनस्त्वेकतस्तथा ।
तथैवास्य प्रभावस्तु स्मृतमात्रे न दृश्यते ॥ १०॥
स्तवराजं भैरवस्य जपात्सिद्धिमवाप्नुयात् ।
लिखित्वायद्गृहे देवि स्थापितं स्तवमुत्तमम् ॥ ११॥
तद्गृहं नाभिभूयेत भूतप्रेतादिभिर्ग्रहैः ।
साम्राज्यं सर्वसम्पत्तिः समृद्धि लभ्यते सुखम् ॥ १२॥
तत्कुलं नन्दते पुंसाम्पुत्रपौत्रादिभिर्धृवम् ।
पार्वत्युवाच ।
यस्त्वया कथितो देव भैरवः स्तोत्रमुत्तमम् ॥ १३॥
अगण्य महिमा सिन्धुः श्रुतो मे बहुधा विभो ।
तस्य नामान्यनन्तानि प्रयुतान्यर्बुदानि च ॥ १४॥
सन्ति सत्यं पुरा ज्ञातं मया वै परमेश्वर ।
सारात्सारं समुधृत्य तेषु नाम सहस्रकम् ॥ १५॥
ब्रूहि मे करुणाकान्त ममानन्द वर्द्धन ।
यन्नित्यं कीर्तयेन्मर्त्यः सर्वदुःखविवर्जितः ॥ १६॥
सर्वान्कामानवाप्नोति सर्वसिद्धिञ्च विन्दति ।
साधकः श्रद्धयायुक्तः सर्वाधिक्योर्कसद्युतिः ॥ १७॥
अप्रधृष्यश्च भवति सङ्ग्रामाङ्गण मूर्द्धति ।
नाग्निचोरभयं तस्य ग्रहराज भयं न च ॥ १८॥
न च मारी भयं तस्य व्याघ्रचोरभयं न च ।
शत्रुणां शस्त्रसङ्घाते भयं क्वापि न जायते ॥ १९॥
आयुरारोग्यमैश्वर्यं पुत्र पौत्रादि सम्पदः ।
भवति कीर्तनाद्यस्यतत्ब्रूहि करुणाकर ॥ २०॥
ईश्वर उवाच ।
नाम्नां सहस्रं दिव्यानं भैरवस्य भवत्कृते ।
वक्ष्यामि तत्वतः सम्यक् सारात्सारतरं शुभम् ॥ २१॥
सर्वपापहरं पुण्यं सर्वोपद्रव नाशनम् ।
सर्वसम्पत्प्रदं चैव साधकानां सुखावहम् ॥ २२॥
सर्व मङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् ।
आयुःकरं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २३॥
भैरव स्तवराजस्य महादेव ऋषिः स्मृतः ।
भैरवोदेवताऽनुष्टुप्छन्दश्चैव प्रकीर्तितम् ॥ २४॥
सर्वकार्यप्रसिद्ध्यर्थं प्रीतये भैरवस्यहि ।
करिष्ये हं जपमिति सङ्कल्प्यादौपुमान्सुधीः ॥ २५॥
अस्य श्रीभैरवसहस्रनामस्तवराजस्य महादेवऋषिः ।
अनुष्टुप्छन्दः । श्रीभैरवो देवता ।
मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे
श्रीभैरव देवताप्रीत्यर्थे जपे विनियोगः ।
(ऋषिः शिरसि विन्यस्य छन्दस्तु मुखतो न्यसेत् ।
देवतां हृदयेन्यस्य ततो न्यासं समाचरेत् ॥ २६॥)
ऱिष्यादिन्यासः ।
श्रीमहादेवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीभैरवदेवतायै नमः हृदि ।
मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिध्यर्थे
श्रीभैरवदेवताप्रीत्यर्थे
इति विनियोगाय नमः सर्वाङ्गे ॥
नेत्रयो भूतहननं सारमेयानुगं भ्रुवौः ॥ २७॥
काल भैरव स्तोत्र पाठ के लाभ
- इसके पाठ से काल भैरव जी शत्रुओं से रक्षा करते हैं।
- यदि आप किसीभी प्रकार कि प्रेत बाधा आदि से पीड़ित हैं तो काल भैरव स्तोत्र पाठ अवश्य करें।
- यदि आप आध्यात्मिक क्षेत्र में उन्नति करना चाहते हैं तो काल भैरव उपासना एक सुगम मार्ग है।
- श्री काल भैरव जी कृपा से व्यक्ति की अकाल मृत्यु नहीं होती।
- यह स्तोत्र आपको अवांछित घटनाओं से सुरक्षित रखती है।
आप नीचे दिए हुए डाउनलोड बटन पर क्लिक करके काल भैरव स्तोत्र pdf| Kalabhairava Sahasranama Stotram डाउनलोड कर सकते हैं।