भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra PDF in Sanskrit

भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra Sanskrit PDF Download

भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra in Sanskrit PDF download link is given at the bottom of this article. You can direct download PDF of भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra in Sanskrit for free using the download button.

Tags:

भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra Sanskrit PDF Summary

Dear friends, here we are going to provide भक्तामर स्तोत्र संस्कृत PDF / Bhaktamar Stotra PDF in Sanskrit for all of you. Shri Bhaktamar Stotra is one of the most powerful and miraculous hymns. In the Jain dharma, Bhaktamar Stotra has great importance. The Bhaktamar Stotra was written by Acharya Manatung.
It is one of the most popular Sanskrit prayers to get a peaceful and happy life. Shri Bhaktamar Stotra is considered very significant in all Jain traditions. There are many devotees who recite it every day with full devotion to get mental peace and prosperous life.
There are also many devotees who believed that in Shri Bhaktamar Stotra faith and beliefs are so supreme. So those people who recite it properly every morning then they can feel the real experience of God. If you are one of those who want to special blessing from god then recite Shri Bhaktamar Stotra with dedication.

भक्तामर स्तोत्र संस्कृत PDF / Bhaktamar Stotra Lyrics in Sanskrit PDF

(भक्तामरस्तोत्र)

भक्तामर-प्रणत-मौलिमणि-प्रभाणा –
मुद्योतकं दलित-पाप-तमोवितानम् ।
सम्यक् प्रणम्य जिन पादयुगं युगादा-
वालंबनं भवजले पततां जनानाम्॥ १॥

यः संस्तुतः सकल-वाङ्मय- तत्व-बोधा-
द्-उद्भूत- बुद्धिपटुभिः सुरलोकनाथैः।
स्तोत्रैर्जगत्त्रितय चित्त-हरैरुदरैः
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ २॥

बुद्ध्या विनाऽपि विबुधार्चित पादपीठ
स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ।
बालं विहाय जलसंस्थितमिन्दु बिम्ब –
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३॥

वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान्
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ।
कल्पान्त – काल् – पवनोद्धत – नक्रचक्रं
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४॥

सोऽहं तथापि तव भक्ति वशान्मुनीश
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ।
प्रीत्यऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं
नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ ५॥

अल्पश्रुतं श्रुतवतां परिहासधाम्
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।
यत्कोकिलः किल मधौ मधुरं विरौति
तच्चारुचूत – कलिकानिकरैकहेतु ॥ ६॥

त्वत्संस्तवेन भवसंतति – सन्निबद्धं
पापं क्षणात् क्षयमुपैति शरीर भाजाम्।
आक्रान्त – लोकमलिनीलमशेषमाशु
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥

मत्वेति नाथ्! तव् संस्तवनं मयेद –
मारभ्यते तनुधियापि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनीदलेषु
मुक्ताफल – द्युतिमुपैति ननूदबिन्दुः ॥ ८॥

आस्तां तव स्तवनमस्तसमस्त – दोषं
त्वत्संकथाऽपि जगतां दुरितानि हन्ति ।
दूरे सहस्रकिरणः कुरुते प्रभैव
पद्माकरेषु जलजानि विकाशभांजि ॥ ९॥

नात्यद्-भूतं भुवन-भुषण भूतनाथ
भूतैर गुणैर्-भुवि भवन्तमभिष्टुवन्तः
तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ॥ १०॥

दृष्टवा भवन्तमनिमेष-विलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः ।
पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः
क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥ ११॥

यैः शान्तरागरुचिभिः परमाणुभिस्तवं
निर्मापितस्त्रिभुवनैक ललाम-भूत।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां
यत्ते समानमपरं न हि रूपमस्ति ॥ १२॥

वक्त्रं क्व ते सुरनरोरगनेत्रहारि
निःशेष – निर्जित-जगत् त्रितयोपमानम् ।
बिम्बं कलङ्क-मलिनं क्व निशाकरस्य
यद्वासरे भवति पांडुपलाशकल्पम् ॥ १३॥

सम्पूर्णमण्ङल – शशाङ्ककलाकलाप्
शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ।
ये संश्रितास्-त्रिजगदीश्वर नाथमेकं
कस्तान्-निवारयति संचरतो यथेष्टम् ॥ १४॥

चित्रं किमत्र यदि ते त्रिदशांगनाभिर्-
नीतं मनागपि मनो न विकार – मार्गम् ।
कल्पान्तकालमरुता चलिताचलेन
किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥ १५॥

निर्धूमवर्तिपवर्जित – तैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि ।
गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥ १६॥

नास्तं कादाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति ।
नाम्भोधरोदर – निरुद्धमहाप्रभावः
सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥ १७॥

नित्योदयं दलितमोहमहान्धकारं
गम्यं न राहुवदनस्य न वारिदानाम् ।
विभ्राजते तव मुखाब्जमनल्प कान्ति
विद्योतयज्जगदपूर्व – शशाङ्कबिम्बम् ॥ १८॥

किं शर्वरीषु शशिनाऽह्नि विवस्वता वा
युष्मन्मुखेन्दु – दलितेषु तमस्सु नाथ
निष्मन्न शालिवनशालिनि जीव लोके
कार्यं कियज्जलधरैर् – जलभार नम्रैः ॥ १९॥

ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरिहरादिषु नायकेषु
तेजः स्फुरन्मणिषु याति यथा महत्वं
नैवं तु काच – शकले किरणाकुलेऽपि ॥ २०॥

मन्ये वरं हरि-हरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥ २१॥

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता।
सर्वा दिशो दधति भानि सहस्ररश्मिं
प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥ २२॥

त्वामामनन्ति मुनयः परमं पुमांस-
मादित्यवर्णममलं तमसः परस्तात् ।
त्वामेव सम्यगुपलभ्य जयंति मृत्युं
नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥ २३॥

त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनंगकेतुम्
योगीश्वरं विदितयोगमनेकमेकं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४॥

बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात्,
त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ।
धाताऽसि धीर ! शिवमार्ग-विधेर्विधानात्,
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥ २५॥

तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ।
तुभ्यं नमः क्षितितलामलभूषणाय ।
तुभ्यं नमस्त्रिजगतः परमेश्वराय,
तुभ्यं नमो जिन ! भवोदधि शोषणाय ॥ २६॥

को विस्मयोऽत्र यदि नाम गुणैरशेषैस् –
त्वं संश्रितो निरवकाशतया मुनीश!
दोषैरूपात्त विविधाश्रय जातगर्वैः,
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७॥

उच्चैरशोक-तरुसंश्रितमुन्मयूख-
माभाति रूपममलं भवतो नितान्तम् ।
स्पष्टोल्लसत्किरणमस्त-तमोवितानं
बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥ २८॥

सिंहासने मणिमयूखशिखाविचित्रे,
विभ्राजते तव वपुः कनकावदातम् ।
बिम्बं वियद्विलसदंशुलता – वितानं,
तुंगोदयाद्रि – शिरसीव सहस्ररश्मेः ॥ २९॥

कुन्दावदात – चलचामर – चारुशोभं,
विभ्राजते तव वपुः कलधौतकान्तम् ।
उद्यच्छशांक – शुचिनिर्झर – वारिधार-,
मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥ ३०॥

छत्रत्रयं तव विभाति शशांककान्त-
मुच्चैः स्थितं स्थगित भानुकर – प्रतापम् ।
मुक्ताफल – प्रकरजाल – विवृद्धशोभं,
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥ ३१॥

गम्भीरतारवपूरित – दिग्विभागस्-
त्रैलोक्यलोक – शुभसंगम भूतिदक्षः ।
सद्धर्मराजजयघोषण – घोषकः सन्,
खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥ ३२॥

मन्दार – सुन्दरनमेरू – सुपारिजात
सन्तानकादिकुसुमोत्कर-वृष्टिरुद्धा ।
गन्धोदबिन्दु – शुभमन्द – मरुत्प्रपाता,
दिव्या दिवः पतित ते वचसां ततिर्वा ॥ ३३॥

शुम्भत्प्रभावलय – भूरिविभा विभोस्ते,
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ।
प्रोद्यद्-दिवाकर – निरन्तर भूरिसंख्या
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ॥ ३४॥

स्वर्गापवर्गगममार्ग – विमार्गणेष्टः,
सद्धर्मतत्वकथनैक – पटुस्त्रिलोक्याः ।
दिव्यध्वनिर्भवति ते विशदार्थसत्व
भाषास्वभाव – परिणामगुणैः प्रयोज्यः ॥ ३५॥

उन्निद्रहेम – नवपंकज – पुंजकान्ती,
पर्युल्लसन्नखमयूख-शिखाभिरामौ ।
पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३६॥

इत्थं यथा तव विभूतिरभूज्जिनेन्द्र,
धर्मोपदेशनविधौ न तथा परस्य ।
यादृक् प्रभा दिनकृतः प्रहतान्धकारा,
तादृक्-कुतो ग्रहगणस्य विकाशिनोऽपि । ३७॥

श्च्योतन्मदाविलविलोल-कपोलमूल
मत्तभ्रमद्-भ्रमरनाद – विवृद्धकोपम् ।
ऐरावताभमिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३८॥

भिन्नेभ – कुम्भ – गलदुज्जवल – शोणिताक्त,
मुक्ताफल प्रकर – भूषित भुमिभागः ।
बद्धक्रमः क्रमगतं हरिणाधिपोऽपि,
नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३९॥

कल्पांतकाल – पवनोद्धत – वह्निकल्पं,
दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् ।
विश्वं जिघत्सुमिव सम्मुखमापतन्तं,
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ४०॥

रक्तेक्षणं समदकोकिल – कण्ठनीलं,
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ।
आक्रामति क्रमयुगेन निरस्तशंकस्-
त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥ ४१॥

वल्गत्तुरंग गजगर्जित – भीमनाद-
माजौ बलं बलवतामपि भूपतिनाम् !
उद्यद्दिवाकर मयूख – शिखापविद्धं,
त्वत्-कीर्तनात् तम इवाशु भिदामुपैति ॥ ४२॥

कुन्ताग्रभिन्नगज – शोणितवारिवाह
वेगावतार – तरणातुरयोध – भीमे ।
युद्धे जयं विजितदुर्जयजेयपक्षास्-
त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥ ४३॥

अम्भौनिधौ क्षुभितभीषणनक्रचक्र-
पाठीन पीठभयदोल्बणवाडवाग्नौ
रंगत्तरंग – शिखरस्थित – यानपात्रास्-
त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥ ४४॥

उद्भूतभीषणजलोदर – भारभुग्नाः
शोच्यां दशामुपगताश्च्युतजीविताशाः ।
त्वत्पादपंकज-रजोऽमृतदिग्धदेहा,
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५॥

आपाद – कण्ठमुरूश‍ृंखल – वेष्टितांगा,
गाढं बृहन्निगडकोटिनिघृष्टजंघाः ।
त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः,
सद्यः स्वयं विगत-बन्धभया भवन्ति ॥ ४६॥

मत्तद्विपेन्द्र – मृगराज – दवानलाहि
संग्राम – वारिधि – महोदर-बन्धनोत्थम् ।
तस्याशु नाशमुपयाति भयं भियेव,
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७॥

स्तोत्रस्त्रजं तव जिनेन्द्र ! गुणैर्निबद्धां,
भक्त्या मया विविधवर्णविचित्रपुष्पाम् ।
धत्ते जनो य इह कंठगतामजस्रं,
तं मानतुंगमवशा समुपैति लक्ष्मीः ॥ ४८॥

भक्तामर स्तोत्र लाभ / Bhaktamar Stotra Benefits

  • Bhaktamar Stotra is considered to be the easiest remedy for every crisis.
  • By reciting this divine stotra, one has to get rid of the problems of life.
  • If you going through any kind of disease, sadness and suffering for a long time, then you will get special benefits by reciting this stotra.
  • By reciting Bhaktamar Stotra with reverence, one gets happiness, peace and prosperity very soon.
  • It is believed that the recitation of this stotra liberates one from sins.

You can download भक्तामर स्तोत्र संस्कृत PDF / Bhaktamar Stotra PDF in Sanskrit by clicking on the following download link.

भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra pdf

भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra PDF Download Link

REPORT THISIf the download link of भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If भक्तामर स्तोत्र संस्कृत PDF | Bhaktamar Stotra is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.