Atmarpana Stuti PDF

Atmarpana Stuti PDF Download

Atmarpana Stuti PDF download link is given at the bottom of this article. You can direct download PDF of Atmarpana Stuti for free using the download button.

Tags:

Atmarpana Stuti PDF Summary

Dear readers, here we are offering Atmarpana Stuti PDF to you. It is one of the best Vedic hymns which is described in Hindu Vedic scriptures. In this work, he has praised Lord Shiva as the highest among the Trinity. This should not be understood to mean that he was a Shaivite with a bias against Vishnu.

He was aviation and so made no distinction between Shiva and Vishnu. He says this clearly in the following shlokas that are written in these hymns. Atmarpana Stuti is one of the best hymns to seek the ultimate energy and blessings of the supreme power of this universe.

Atmarpana Stuti Lyrics PDF

श्रीमदप्पय्य दीक्षित विरचिता

कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं

यस्मादित्थं विविधरचना सृष्टिरेषा बभूव ।

भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात्

स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥ १॥

क्षित्यादिनामवयववतां निश्चितं जन्म तावत्

तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् ।

नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावः

तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥ २॥

इन्द्रं मित्रं वरुणमनिलं पुनरजं विष्णुमीशं  var  पद्मजं

प्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् ।

एतैः साकं सकलमपि यच्छक्तिलेशे समाप्तं   var  एतैस्सार्धं

स त्वं देवः श्रुतिषु विदितः शम्भुरित्यादिदेवः ॥ ३॥

आनन्दाद्यः कमपि च घनीभावमास्थायरूपं  var  आनन्दाब्धेः

शक्त्या सार्धं परममुमया शाश्वतं भोगमृच्छन् । भोगमिच्छन्

अध्वातीते शुचिदिवसकृत्कोटिदीप्ते कपर्दिन्  var  दीपे

आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशैः ॥ ४॥

त्वं वेदान्तैः प्रथितमहिमा गीयसे विश्वनेतः var  विविधमहिमा

त्वं विप्राद्यैर्वरद निखिलैरिज्यसे कर्मभिः स्वैः ।

त्वं दृष्टानुश्रविकविषयानन्दमात्रावितृष्णै-

रन्तर्ग्रन्थिप्रविलयकृते चिन्त्यसे योगिवृन्दैः ॥ ५॥

ध्यायन्तस्त्वां कतिचन भवं दुस्तरं निस्तरन्ति

त्वत्पादाब्जं विधिवदितरे नित्यमाराधयन्तः ।

अन्ये वर्णाश्रमविधिरताः पालयन्तस्त्वदाज्ञां

सर्वं हित्वा भवजलनिधौ देव मज्जामि घोरे ॥ ६॥

variation   भवजलनिधावेष

उत्पद्यापि स्मरहर महत्युत्तमानां कुलेऽस्मिन्

आस्वाद्य त्वन्महिमजलधेरप्यहं शीकराणून् ।

त्वत्पादार्चाविमुखहृदयश्चापलादिन्द्रियाणां

व्यग्रस्तुच्छेष्वहह जननं व्यर्थयाम्येष पापः ॥ ७॥

अर्कद्रोणप्रभृतिकुसुमैरर्चनं ते विधेयं

प्राप्यं तेन स्मरहर फलं मोक्षसाम्राज्यलक्ष्मीः ।

एतज्जानन्नपि शिव शिव व्यर्थयन्कालमात्मन्

आत्मद्रोही करणविवशो भूयसाधः पतामि ॥ ८॥

किं वा कुर्वे विषमविषयस्वैरिणा वैरिणाहं

बद्धः स्वामिन् वपुषि हृदयग्रन्थिना सार्धमस्मिन् ।

उक्ष्णा दर्पज्वरभरजुषा साकमेकत्र बद्धः

श्राम्यन्वत्सः स्मरहर युगे धावता किं करोतु ॥ ९॥

नाहं रोद्धुं करणनिचयं दुर्नयं पारयामि

स्मारं स्मारं जनिपथरुजं नाथ सीदामि भीत्या ।

किं वा कुर्वे किमुचितमिह क्वाद्य गच्छामि हन्त

त्वत्पादाब्जप्रपतनमृते नैव पश्याम्युपायम् ॥ १०॥

उल्लङ्घ्याज्ञामुडुपतिकलाचूड ते विश्ववन्द्य

त्यक्ताचारः पशुवदधुना मुक्तलज्जश्चरामि ।

एवं नानाविधभवततिप्राप्तदीर्घापराधः

क्लेशाम्भोधिं कथमहमृते त्वत्प्रसदात्तरेयम् ॥ ११॥

क्षाम्यस्येव त्वमिह करुणासागरः कृत्स्नमागः

संसारोत्थं गिरिश सभयप्रार्थनादैन्यमात्रात् ।

यद्यप्येवं प्रतिकलमहं व्यक्तमागःसहस्रं

कुर्वन् मूर्खः कथमिव तथा निस्त्रपः प्रार्थयेयम् ॥ १२॥

सर्वं क्षेप्तुं प्रभवति जनः संसृतिप्राप्तमागः

चेतः श्वासप्रशमसमये त्वत्पादाब्जे निधाय ।

तस्मिन्काले यदि मम मनो नाथ दोषत्रयार्तं

प्रज्ञाहीनं पुरहर भवेत् तत्कथं मे घटेत ॥ १३॥

प्राणोत्क्रान्तिव्यतिकरदलत्सन्धिबन्धे शरीरे

प्रेमावेशप्रसरदमिताक्रन्दिते बन्धुवर्गे ।

अन्तः प्रज्ञामपि शिव भजन्नन्तरायैरनन्तैः

आविद्धोऽहं त्वयि कथमिमामर्पयिष्यामि बुद्धिम् ॥ १४॥

अद्यैव त्वत्पदनलिनयोरर्पयाम्यन्तरात्मन्

आत्मानं मे सह परिकरैरद्रिकन्याधिनाथ ।

नाहं बोद्धुं शिव तव पदं न क्रिया योगचर्याः

कर्तुं शक्नोम्यनितरगतिः केवलं त्वां प्रपद्ये ॥ १५॥

यः स्रष्टारं निखिलजगतां निर्ममे पूर्वमीशः

तस्मै वेदानदित सकलान् यश्च साकं पुराणैः ।

तं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशं

संसारार्तः शरणमधुना पार्वतीशं प्रपद्ये ॥ १६॥

ब्रह्मादीन् यः स्मरहर पशून्मोहपाशेन बद्ध्वा

सर्वानेकश्चिदचिदधिकः कारयित्वाऽऽत्मकृत्यम् ।

यश्चैतेषु स्वपदशरणान्विद्यया मोचयित्वा

सान्द्रानन्दं गमयति परं धाम तं त्वां प्रपद्ये ॥ १७॥

भक्ताग्र्याणां कथमपि परैर्योऽचिकित्स्याममर्त्यैः

संसाराख्यां शमयति रुजं स्वात्मबोधौषधेन ।

तं सर्वाधीश्वर भवमहादीर्घतीव्रामयेन

क्लिष्टोऽहं त्वां वरद शरणं यामि संसारवैद्यम् ॥ १८॥

ध्यातो यत्नाद्विजितकरणैर्योगिभिर्यो विमुक्त्यै (विमृग्यः)

तेभ्यः प्राणोत्क्रमणसमये संनिधायात्मनैव ।

तद्व्याचष्टे भवभयहरं तारकं ब्रह्म देवः

तं सेवेऽहं गिरिश सततं ब्रह्मविद्यागुरुं त्वाम् ॥ १९॥

दासोऽस्मीति त्वयि शिव मया नित्यसिद्धं निवेद्यं

जानास्येतत् त्वमपि यदहं निर्गतिः संभ्रमामि ।

नास्त्येवान्यन्मम किमपि ते नाथ विज्ञापनीयं

कारुण्यान्मे शरणवरणं दीनवृत्तेर्गृहाण ॥ २०॥

ब्रह्मोपेन्द्रप्रभृतिभिरपि स्वेप्सितप्रार्थनाय

स्वामिन्नग्रे चिरमवसरस्तोषयद्भिः प्रतीक्ष्यः ।

द्रागेव त्वां यदिह शरणं प्रार्थये कीटकल्पः

तद्विश्वाधीश्वर तव कृपामेव विश्वस्य दीने ॥ २१॥

कर्मज्ञानप्रचयमखिलं दुष्करं नाथ पश्यन्

पापासक्तं हृदयमपि चापारयन्सन्निरोद्धुम् ।

संसाराख्ये पुरहर महत्यन्धकूपे विषीदन्

हस्तालम्बप्रपतनमिदं प्राप्य ते निर्भयोऽस्मि॥ २२॥

त्वामेवैकं हतजनिपथे पान्थमस्मिन्प्रपञ्चे

मत्वा जन्मप्रचयजलधेः बिभ्यतः पारशून्यात् ।

यत्ते धन्याः सुरवर मुखं दक्षिणं संश्रयन्ति

क्लिष्टं घोरे चिरमिह भवे तेन मां पाहि नित्यम् ॥ २३॥

एकोऽसि त्वं शिव जनिमतामीश्वरो बन्धमुक्त्योः

क्लेशाङ्गारावलिषु लुठतः का गतिस्त्वां विना मे ।

तस्मादस्मिन्निह पशुपते घोरजन्मप्रवाहे

खिन्नं दैन्याकरमतिभयं मां भजस्व प्रपन्नम् ॥ २४॥

यो देवानां प्रथममशुभद्रावको भक्तिभाजां

पूर्वं विश्वाधिक शतधृतिं जायमानं महर्षिः ।

दृष्ट्यापश्यत्सकलजगतीसृष्टिसामर्थ्यदात्र्या

स त्वं ग्रन्थिप्रविलयकृते विद्यया योजयास्मान् ॥ २५॥

यद्याकाशं शुभद मनुजाश्चर्मवद्वेष्टयेयुः

दुःखस्यान्तं तदपि पुरुषस्त्वामविज्ञाय नैति ।

विज्ञानं च त्वयि शिव ऋते त्वत्प्रसादान्न लभ्यं

तद्दुःखार्तः कमिह शरणं यामि देवं त्वदन्यम् ॥ २६॥

किं गूढार्थैरकृतकवचोगुम्फनैः किं पुराणैः

तन्त्राद्यैर्वा पुरुषमतिभिर्दुर्निरूप्यैकमत्यैः ।

किं वा शास्त्रैरफलकलहोल्लासमात्रप्रधानैः

विद्या विद्येश्वर कृतधियां केवलं त्वत्प्रसादात् ॥ २७॥

पापिष्टोऽहं विषयचपलः सन्ततद्रोहशाली var  सन्ततं द्रोहशाली

कार्पण्यैकस्थिरनिवसतिः पुण्यगन्धानभिज्ञः ।

यद्यप्येवं तदपि शरणं त्वत्पदाब्जं प्रपन्नं

नैनं दीनं स्मरहर तवोपेक्षितुं नाथ युक्तम् ॥ २८॥

आलोच्यैवं यदि मयि भवान् नाथ दोषाननन्तान्

अस्मत्पादाश्रयणपदवीं नार्हतीति क्षिपेन्माम् ।

अद्यैवेमं शरणविरहाद्विद्धि भीत्यैव नष्टं

ग्रामो गृह्णात्यहिततनयं किं नु मात्रा निरस्तम् ॥ २९॥

क्षन्तव्यं वा निखिलमपि मे भूतभावि व्यलीकं

दुर्व्यापारप्रवणमथवा शिक्षणीयं मनो मे ।

न त्वेवार्त्त्या निरतिशयया त्वत्पदाब्जं प्रपन्नं

त्वद्विन्यस्ताखिलभरममुं युक्तमीश प्रहातुम् ॥ ३०॥

सर्वज्ञस्त्वं निरवधिकृपासागरः पूर्णशक्तिः

कस्मादेनं न गणयसि मामापदब्धौ निमग्नम् ।

एकं पापात्मकमपि  रुजा सर्वतोऽत्यन्तदीनं

जन्तुं यद्युद्धरसि शिव कस्तावतातिप्रसङ्गः ॥ ३१॥

अत्यन्तार्तिव्यथितमगतिं देव मामुद्धरेति

क्षुण्णो मार्गस्तव शिव पुरा केन वाऽनाथनाथ ।

कामालम्बे बत तदधिकां प्रार्थनारीतिमन्यां

त्रायस्वैनं सपदि कृपया वस्तुतत्त्वं विचिन्त्य ॥ ३२॥

एतावन्तं भ्रमणनिचयं प्रापितोऽयं वराकः

श्रान्तः स्वामिन्नगतिरधुना मोचनीयस्त्वयाहम् ।

कृत्याकृत्यव्यपगतमतिर्दीनशाखामृगोऽयं

संताड्यैनं दशनविवृतिं पश्यतस्ते फलं किम् ॥ ३३॥

माता तातः सुत इति समाबध्य मां मोहपाशै-

रापात्यैवं भवजलनिधौ हा किमीश त्वयाऽऽप्तम् ।

एतावन्तं समयमियतीमार्तिमापादितेऽस्मिन्

कल्याणी ते किमिति न कृपा कापि मे भाग्यरेखा ॥ ३४॥

भुङ्क्षे गुप्तं बत सुखनिधिं तात साधारणं त्वं

भिक्षावृत्तिं परमभिनयन्मायया मां विभज्य ।

मर्यादायाः सकलजगतां नायकः स्थापकस्त्वं

युक्तं किं तद्वद विभजनं योजयस्वात्मना माम् ॥ ३५॥

न त्वा जन्मप्रलयजलधेरुद्धरामीति चेद्धीः

आस्तां तन्मे भवतु च जनिर्यत्र कुत्रापि जातौ ।

त्वद्भक्तानामनितरसुखैः पादधूलीकिशोरैः

आरब्धं मे भवतु भगवन् भावि सर्वं शरीरम् ॥ ३६॥

कीटा नागास्तरव इति वा किं न सन्ति स्थलेषु

त्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु ।

तेष्वेकं वा सृज पुनरिमं नाथ दीनार्त्तिहारिन्

आतोषान्मां मृड भवमहाङ्गारनद्यां लुठन्तम् ॥ ३७॥

काले कण्ठस्फुरदसुकलालेशसत्तावलोक-

व्याग्रोदग्रव्यसनिसकलस्निग्घरुद्धोपकण्ठे ।

अन्तस्तोदैरवधिरहितामार्तिमापद्यमानो-

ऽप्यङिघ्रद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा ॥ ३८॥

अन्तर्बाष्पाकुलितनयनानन्तरङ्गानपश्यन्

अग्रे घोषं रुदितबहुलं कातराणामश्रुण्वन् ।

अत्युत्क्रान्तिश्रममगणयन् अन्तकाले कपर्दिन्

अङ्घ्रिद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा ॥ ३९॥

चारुस्मेराननसरसिजं चन्द्ररेखावतंसं

फुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् ।

अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णं

लोकातीतं सततशिवदं रूपमप्राकृतं ते ॥ ४०॥

स्वप्ने वापि स्वरसविकसद्दिव्यपङ्केरुहाभं

पश्येयं किं तव पशुपते पादयुग्मं कदाचित् ।

क्वाहं पापः क्व तव चरणालोकभाग्यं तथापि

प्रत्याशां मे घटयति पुनर्विश्रुता तेऽनुकम्पा ॥ ४१॥

भिक्षावृत्तिं चर पितृवने भूतसङ्घैर्भ्रमेदं

विज्ञातं ते चरितमखिलं विप्रलिप्सोः कपालिन् ।

आवैकुण्ठद्रुहिणमखिलप्राणिनामीश्वरस्त्वं

नाथ स्वप्नेऽप्यहमिह न ते पादपद्मं त्यजामि ॥ ४२॥

आलेपनं भसितमावसथः श्मशानं

अस्थीनि ते सततमाभरणानि सन्तु ।

निह्नोतुमीश सकलश्रुतिपारसिद्धं

ऐश्वर्यमम्बुजभवोऽपि च न क्षमस्ते ॥ ४३॥

विविधमपि गुणौघं वेदयन्त्यर्थवादाः

परिमितविभवानां पामराणां सुराणाम् ।

तनुहिमकरमौले तावता त्वत्परत्वे

कति कति जगदीशाः कल्पिता नो भवेयुः ॥ ४४॥

विहर पितृवने वा विश्वपारे पुरे वा

रजतगिरितटे वा रत्नसानुस्थले वा ।

दिश भवदुपकण्ठं देहि मे भृत्यभावं

परमशिव तव श्रीपादुकावाहकानाम् ॥ ४५॥

बलमबलममीषां बल्बजानां विचिन्त्यं

कथमपि शिव कालक्षेपमात्रप्रधानैः ।

निखिलमपि रहस्यं नाथ निष्कृष्य साक्षात्

सरसिजभवमुख्यैः साधितं नः प्रमाणम् ॥ ४६॥

न किंचिन्मेनेऽतः समभिलषणीयं त्रिभुवने

सुखं वा दुःखं वा मम भवतु यद्भावि भगवन् ।

समुन्मीलत्पाथोरुहकुहरसौभाग्यमुषिते

पदद्वन्द्वे चेतः परिचयमुपेयान्मम सदा ॥ ४७॥

उदरभरणमात्रं साध्यमुद्दिश्य नीचे-

ष्वसकृदुपनिबद्धामाहितोच्छिष्टभावाम् ।

अहमिह नुतिभङ्गीमर्पयित्वोपहारं

तव चरणसरोजे तात जातोऽपराधी ॥ ४८॥

सर्वं सदाशिव सहस्व ममापराधं

मग्नं समुद्धर महत्यमुमापदब्धौ ।

सर्वात्मना तव पदाम्बुजमेव दीनः

स्वामिन्ननन्यशरणः शरणं प्रपद्ये ॥ ४९॥

आत्मार्पणस्तुतिरियं भगवन्निबद्धा

यद्यप्यनन्यमनसा न मया तथापि ।

वाचापि केवलमयं शरणं वृणीते

दीनो वराक इति रक्ष कृपानिधे माम् ॥ ५०॥

इति श्रीमदप्पय्यदीक्षितेन्द्राणां कृतिष्वन्यतमा आत्मार्पणस्तुतिः सम्पूर्णा ।

You can download Atmarpana Stuti PDF by clicking on the following download button.

Atmarpana Stuti PDF Download Link

REPORT THISIf the download link of Atmarpana Stuti PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Atmarpana Stuti is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published. Required fields are marked *